Question 110Asked in BPSC TRE 3.0 (2024) Sanskrit Class 6-8

निर्देशः – अधोलिखितं गद्यांशं पठित्वा 111-115 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत –

निर्देशः – अधोलिखितं गद्यांशं पठित्वा 111-115 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत – स्त्रीणां कृते शिक्षाया महती आवश्यकता एतस्मात् कारणात् वर्तते यत् ता एव समये प्राप्ते मातरो भवन्ति । यथा मातरो भवन्ति, तथैव सन्ततिर्भवति। यदि मातरोऽशिक्षिताः विद्याशून्याः कर्तव्यज्ञानहीनाश्च सन्ति, तर्हि पुत्राः पुत्र्यश्च तथैवाविद्याग्रस्ताः कुशलतारहिताश्च भविष्यन्ति । यदि नार्यः शिक्षिताः सन्ति, तर्हि ताः स्वपुत्राणां पालनं रक्षणं शिक्षणादिकं च सम्यक्तया करिष्यन्ति, एवं तासां सन्ततिः विद्यायुक्ता हृष्टा पुष्टा सद्गुणोपेता च भविष्यति । अतएव महानिर्वाण तन्त्रेऽप्युक्तमस्ति “कन्याऽप्येवं लालनीया शिक्षणीया प्रयत्नतः” विवाहे संजाते कन्याः गृहस्थाश्रमं प्रविशन्ति । यदि पुरुषो विद्वान् स्त्री च विद्याशून्या भवति तर्हि दाम्पत्यजीवनं सुखकरं न भवति। विद्यायाभावात् स्त्री स्वकीयं कर्तव्यं न जानाति, अतएव बहवो रोगा व्याधयश्च तत्र स्थानं कुर्वन्ति । अतः स्त्रीणामपि शिक्षा पुत्राणां शिक्षावदेष आवश्यकी वर्तते। स्त्रियो मातृशक्तेः प्रतीकभूताः सन्ति, अतस्तासां सदा सम्मानः करणीयः। यस्मिन् देशे समाजे च स्त्रीणामादरो भवति, स देशः समाजश्चोन्नतिं प्राप्नुतः । उक्तं च मनुना– “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः”।। ‘‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः’’ - केन उक्तमस्ति ?
  1. Aमनुना
  2. Bयाज्ञवल्क्येन
  3. Cनारदेन
  4. Dउपर्युक्तेषु एकस्मात् अधिकम्
  5. Eउपर्युक्तेषु कश्चन अपि नास्ति
Show answerHide answer

Correct answer: (A) मनुना

Explanation

गद्यांश के अन्त में लिखा है ‘उक्तं च मनुना’, अर्थात् यह वचन मनु का है। अतः (A) सही है।

From BPSC TRE 3.0 (2024) Sanskrit Class 6-8 — Previous Year Paper

This is question 110 of BPSC TRE 3.0 (2024) Sanskrit Class 6-8 — Previous Year Paper. See all questions of this paper with answers, or attempt the paper as a timed online test to get your score and all-India rank.