Question 121Asked in BPSC TRE 3.0 (2024) Sanskrit Class 6-8

निर्देशः – अधोलिखितं गद्यांशं पठित्वा 121-125 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत –

निर्देशः – अधोलिखितं गद्यांशं पठित्वा 121-125 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत – स्वराज्यं हि नाम राष्ट्रस्य परमोत्कर्षधायकं तत्त्वम् । सर्वेषां स्वराष्ट्रिय प्रजाजनानां सम्मत्या प्रतिविध्यविधया प्रवर्तितं यद्राज्यं तत्स्वराज्यपदेन व्यपदिश्यते । तादृशस्वराज्योपलब्ध्यर्थमेव जनैः प्रयतितव्यम् इति ऋग्वेदेऽपि समुपदिष्टम् । वेदे स्वराज्य - महिमा वर्णनार्थमेकमखिलं सूक्तमेव पठ्यते तद्धि स्वराज्यसूक्तमिति नाम्ना कथ्यते । अन्यत्रापि बहुत्र स्वराज्य गुणगरिमाऽवलोक्यते। कस्यापि राष्ट्रस्य कृते स्वराज्यसदृशमन्यत् भूतं प्रभूतं वैभवं नास्ति। एतेन ध्वन्यते प्रस्फुटं यत् प्रजातन्त्रं शासनमपि तदेवोत्कृष्टं यत्स्वराज्यसंवलितं भवेत् । एष प्रजातन्त्रप्रसङ्गः अन्यत्रापि संस्कृतसाहित्ये दरीदृश्यते । प्रायशः वर्षाणां सहस्रद्वयी व्यतीयाय यदा राजनीति निपुणः कौटल्यापरनामधेयः आचार्य चाणक्यः बभूव। तेन कूटनीतिधुरंधरेण एकायत्तं नन्दवंश प्रशासनमुदिश्य मौर्यकुलभूषणं चन्द्रगुप्तं राज्यसिंहासने प्रतिष्ठापयामास । महान् राजनीतिज्ञः कौटिल्यः चन्द्रगुप्तस्य कृते साम्राज्यधुरं निर्वोढुमर्थशास्त्रविधं लोक विश्रुतं राजनीतितन्त्रं प्रणिनाय। यत्र प्रजातन्त्रपद्धतिमेवावलभ्य राज्यतन्त्रं सञ्चालयितव्यमिति सर्वं सुनिपुणं प्रतिपादितम् । ‘अर्थशास्त्रम्’ कस्याः नीतेः तन्त्ररूपेण ज्ञायते ?
  1. Aधर्मनीतेः तन्त्रम्
  2. Bअर्थनीतेः तन्त्रम्
  3. Cराजनीतेः तन्त्रम्
  4. Dउपर्युक्तेषु एकस्मात् अधिकम्
  5. Eउपर्युक्तेषु कश्चन अपि नास्ति
Show answerHide answer

Correct answer: (C) राजनीतेः तन्त्रम्

Explanation

गद्यांश में अर्थशास्त्र को ‘राजनीतितन्त्रम्’ कहा गया है। अतः (C) सही है।

From BPSC TRE 3.0 (2024) Sanskrit Class 6-8 — Previous Year Paper

This is question 121 of BPSC TRE 3.0 (2024) Sanskrit Class 6-8 — Previous Year Paper. See all questions of this paper with answers, or attempt the paper as a timed online test to get your score and all-India rank.