Question 123Asked in BPSC TRE 3.0 (2024) Sanskrit Class 9-10

निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारितानां प्रश्नानां (122-126) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत -

निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारितानां प्रश्नानां (122-126) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत - अस्ति काचित् पोलण्डवास्तव्या करोलिनाख्या महिला। भारतीयेन अनुरागगोस्वामिना सा उदूढा। अतः अधुना सा स्वम् ‘करोलिनागोस्वामी’ इति परिचाययति। सा भारतम् अधिकृत्य इत्थम् अभिदधाति - “भारतस्य जनजीवनपद्धतिं वीक्ष्य अहं भारते अतीव स्निह्यामि। विश्वस्य सर्वासां समस्यानां समाधानं भारतात् प्राप्तुं शक्यते इत्यत्र अहं विश्वसिमि। एवं सत्यपि भारतं स्वं परिचाययितुं कथं न शक्तम्? कथं न अन्ये देशाः भारते रूचिं वहन्ति? मनागपि उपद्रवम् अकुर्वाणाः शान्ताः इमे भारतीयाः सर्वस्मिन् अपि जगति शिक्षणे वाणिज्ये च कौशलेन व्याप्तिं गताः सन्ति चेदपि विदेशीयेषु भारतम् अधिकृत्य कथं विप्रतिपत्तिः अस्ति?” “अधुनाऽपि अहं यदा यदा युरोपादिदेशेषु प्रवासं करोमि तदा तदा ते भारते निवसन्तीं मां समुपलक्ष्य आश्चर्यं व्यञ्जयन्तः वदन्ति- “करोलिने! इतोऽपि किं त्वं भारते निवससि! मलिनैः असभ्यैः तैः भारतीयैः सह निवसन्ती त्वं मनागपि किं न उद्विग्ना? अहो ते सहिष्णुता!” इत्थं ब्रुवाणैः तैः विदेशीयैः कदापि भारतं दृष्टमेव न, केवलं ते युरोपीयलेखकैः लिखितं वृत्तपत्रादिषु प्रकाशितं च पठित्वा इत्थम् अभिप्रयन्ति। बहुधा ते एवं मन्यन्ते यत् भारते कापि सभ्यता संस्कृतिः वा नास्ति एव, केवलं तत्र असभ्यजनानां साम्राज्यं वरीवर्तते इति। बाढम् उद्वेजिता अहम् एतस्य श्रवणात्। मया युरोपदेशाः दृष्टाः। अमेरिकादेशोऽपि दृष्टः। भारतस्य वैशाल्यं वीक्ष्य अहम् आश्चर्यमग्ना अस्मि। युरोपस्य ये देशाः सन्ति पोलण्डादयः ते भारतस्य राज्य-तुल्यपरिमाणाः एव। अतः भारते वैविध्यमस्ति। विश्वस्य सर्वासां समस्यानां समाधानं कुतः प्राप्तुं शक्यते?
  1. Aयूरोपात्
  2. Bजापानात्
  3. Cभारतात्
  4. Dउपर्युक्तेषु एकस्मादधिकः
  5. Eउपर्युक्तेषु किञ्चन अपि नास्ति
Show answerHide answer

Correct answer: (C) भारतात्

Explanation

करोलिना के अनुसार विश्व की सभी समस्याओं का समाधान भारत से प्राप्त किया जा सकता है।

From BPSC TRE 3.0 (2024) Sanskrit Class 9-10 — Previous Year Paper

This is question 123 of BPSC TRE 3.0 (2024) Sanskrit Class 9-10 — Previous Year Paper. See all questions of this paper with answers, or attempt the paper as a timed online test to get your score and all-India rank.