Question 87Asked in BPSC TRE 1.0 (2023) Sanskrit Class 9-10

निर्देशः—अधोलिखितं गद्यांशं पठित्वा 83–88 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

निर्देशः—अधोलिखितं गद्यांशं पठित्वा 83–88 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत। प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः, तर्पयति च सुखसाधनैः। पृथिवी, जलं, तेजो, वायुः आकाशश्चास्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकोऽनेनेति पर्यावरणम्। यथा जातश्शिशुः मातृगर्भे सुरक्षितस्तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणमस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं सत्यसङ्कल्पं माङ्गलिकसामग्रीश्च ददाति। प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क मङ्गलम्? अधोऽङ्कितेषु कस्य उपयोगः पर्यावरणस्य निर्माणे न भवति?
  1. Aजलस्य
  2. Bवायोः
  3. Cदुर्गस्य
  4. Dउपर्युक्तेषु एकस्मादधिकः
  5. Eउपर्युक्तेषु किञ्चन अपि नास्ति
Show answerHide answer

Correct answer: (C) दुर्गस्य

Explanation

जल, वायु आदि पर्यावरण के निर्माण में सहायक हैं, पर दुर्ग (किला) पर्यावरण का अंग नहीं है। उत्तर (C)।

From BPSC TRE 1.0 (2023) Sanskrit Class 9-10 — Previous Year Paper

This is question 87 of BPSC TRE 1.0 (2023) Sanskrit Class 9-10 — Previous Year Paper. See all questions of this paper with answers, or attempt the paper as a timed online test to get your score and all-India rank.