Question 85Asked in BPSC TRE 2.0 (2023) Sanskrit Class 6-8

निर्देशः—प्रश्नः 84–89 पर्यन्तं प्रश्नाः प्रस्तुतगद्यांशाधारीकृत्य समाधेयाः—

निर्देशः—प्रश्नः 84–89 पर्यन्तं प्रश्नाः प्रस्तुतगद्यांशाधारीकृत्य समाधेयाः— अस्ति मगधदेशे चम्पकवती नामारण्यानी। तस्यां चिरान्महता स्नेहेन मृगकाकौ निवसतः। स च मृगः स्वेच्छया भ्राम्यन्हृष्टपुष्टाङ्गः केनचिच्छृगालेनावलोकितः। तं दृष्ट्वा शृगालोऽचिन्तयत्—“आः, कथमेतन्मांसं सुललितं भक्षयामि? भवतु, विश्वासं तावदुत्पादयामि।” इत्यालोच्योपसृत्याब्रवीत्—“मित्र! कुशलं ते?” मृगेणोक्तम्—“कस्त्वम्?” स ब्रूते—“क्षुद्रबुद्धिनामा जम्बूकोऽहम् अत्रारण्ये बन्धुहीनो मृतवन्निवसामि। इदानीं त्वां मित्रमासाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोऽस्मि। अधुना तवानुचरेण मया सर्वथा भवितव्यम्।” मृगेणोक्तम्—“एवमस्तु।” ततः पश्चादस्तं गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ। तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति। तौ दृष्ट्वा काकोऽवदत्—“सखे चित्राङ्ग! कोऽयं द्वितीयः?” मृगो ब्रूते—“जम्बूकोऽयम्, अस्मत्सख्यमिच्छन्नागतः।” काको ब्रूते—मित्र! अकस्मादागन्तुना सह मैत्री न युक्ता। चम्पकवती नामारण्यानी अस्ति
  1. Aदाक्षिणात्ये
  2. Bबंगदेशे
  3. Cमगधदेशे
  4. Dएकाधिकविकल्पा उपयुक्ताः
  5. Eन कोऽपि उपयुक्तः
Show answerHide answer

Correct answer: (C) मगधदेशे

Explanation

गद्यांश के आरम्भ में लिखा है कि चम्पकवती नामक अरण्यानी मगधदेश में है। अतः (C) सही है।

From BPSC TRE 2.0 (2023) Sanskrit Class 6-8 — Previous Year Paper

This is question 85 of BPSC TRE 2.0 (2023) Sanskrit Class 6-8 — Previous Year Paper. See all questions of this paper with answers, or attempt the paper as a timed online test to get your score and all-India rank.