निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितानां प्रश्नानां (97-101) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत -
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितानां प्रश्नानां (97-101) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत -
प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः, तर्पयति च सुखसाधनैः। पृथिवी, जलं, तेजो, वायुः, आकाशश्चास्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकोऽनेनेति पर्यावरणम्। यथाऽजातशिशुः मातृगर्भे सुरक्षित-स्तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणमस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसा-मग्रीञ्च प्रददाति।
परन्तु स्वार्थान्धो मानवस्तदेव पर्यावरणमद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। यन्त्रागाराणां विषाक्तं जलं नद्यां निपात्यते येन मत्स्यादीनां जलचराणाञ्च क्षणेनैव नाशो जायते। नदी जलमपि तत्सर्वथाऽपेयं जायते। वनवृक्षा निर्विवेकं छिद्यन्ते व्यापार वर्धनाय, येन अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति। शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जातः।
एवं हि स्वार्थान्धमानवैर्विकृतिमुपगता प्रकृतिरेव तेषां विनाशकर्त्री सञ्जाता। पर्यावरणे विकृतिमुपगते जायन्ते विविधा रोगा भीषणसमस्याश्च। तत्सर्वमिदानीं चिन्तनीयं प्रतिभाति।
स्वार्थान्धो मानवः किं करोति?
Show answerHide answer
Correct answer: (C) पर्यावरणं नाशयति
Explanation
गद्यांश के अनुसार स्वार्थ में अन्धा मनुष्य पर्यावरण को नष्ट करता है।