Question 115Asked in BPSC TRE 3.0 (2024) Sanskrit Class 6-8

निर्देशः – अधोलिखितं गद्यांशं पठित्वा 116-120 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत –

निर्देशः – अधोलिखितं गद्यांशं पठित्वा 116-120 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत – यत् सर्वलोकहित सम्पादने प्रभवति, सर्वस्य च जगतः सुखभावहति, समाजस्य च संरक्षणं विदधाति, तत् सत्यम्। दार्शनिकदृष्ट्या यद् वस्तु शाश्वत रूपेण स्थायि अविनश्वरं च तत् सत्यम् । यत्र देशकालादिभेदेऽपि न वैपरीत्यं परिवर्तन क्षमत्वं वा तत् सत्यमिति । तथाविध विवेचनया जगति ब्रह्मैव सत्यम् इति दर्शनविद्भिः संस्थाप्यते । अत्र दार्शनिकं सत्यं न विवक्षितम्, इति लौकिक सत्यमेव विव्रियते। यद् वस्तु येन रूपेण विद्यते, तस्य तेनैव रूपेण प्रकाशनं विवरणम् अभिधानं च सत्यम् इत्यनेनाभिप्रेतम्। धर्मस्य मूलं सत्यम् । सत्यमेव धर्मः । नहि धर्मः सत्याद् अतिरिच्यते । सत्यं ज्योतिः, सत्यमेव जीवनं द्योतयति ज्वलयति च। सत्यं ब्रह्मणस्तत्त्वम् । अतएव ‘ब्रह्म सत्यं जगन्मिथ्या’ इति वेदान्तविद्भिःरुदीर्यते। ब्रह्मैव सत्यं, सत्यं च ब्रह्मात्मकम् इति सुकरं वक्तुम्। अतएव ईश्वरस्य स्वस्य निर्देशात्मके सच्चिदानन्दशब्दे सत् शब्दः प्राङ् निर्दिश्यते । छान्दोऽग्योपनिषदि बृहदारण्यकोपनिषदि च सत्यमेव ब्रह्मेति प्रतिपाद्यते तदेव च जिज्ञासितव्यम्। सत्यं ब्रह्मेति, सत्यं ह्येव ब्रह्म। बृहदारकारोपनिषद् 5/4/2 सत्यं त्वेव विजिज्ञासितव्यम् । छान्दोग्योपनिषद् 7/16/2 सत्यं किमस्ति ?
  1. Aकामस्यमूलम्
  2. Bअर्थस्यमूलम्
  3. Cधर्मस्यमूलम्
  4. Dउपर्युक्तेषु एकस्मात् अधिकम्
  5. Eउपर्युक्तेषु कश्चन अपि नास्ति
Show answerHide answer

Correct answer: (C) धर्मस्यमूलम्

Explanation

गद्यांश में स्पष्ट लिखा है ‘धर्मस्य मूलं सत्यम्’। अतः (C) सही है।

From BPSC TRE 3.0 (2024) Sanskrit Class 6-8 — Previous Year Paper

This is question 115 of BPSC TRE 3.0 (2024) Sanskrit Class 6-8 — Previous Year Paper. See all questions of this paper with answers, or attempt the paper as a timed online test to get your score and all-India rank.