Question 116Asked in BPSC TRE 3.0 (2024) Sanskrit Class 6-8

निर्देशः – अधोलिखितं गद्यांशं पठित्वा 116-120 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत –

निर्देशः – अधोलिखितं गद्यांशं पठित्वा 116-120 प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत – यत् सर्वलोकहित सम्पादने प्रभवति, सर्वस्य च जगतः सुखभावहति, समाजस्य च संरक्षणं विदधाति, तत् सत्यम्। दार्शनिकदृष्ट्या यद् वस्तु शाश्वत रूपेण स्थायि अविनश्वरं च तत् सत्यम् । यत्र देशकालादिभेदेऽपि न वैपरीत्यं परिवर्तन क्षमत्वं वा तत् सत्यमिति । तथाविध विवेचनया जगति ब्रह्मैव सत्यम् इति दर्शनविद्भिः संस्थाप्यते । अत्र दार्शनिकं सत्यं न विवक्षितम्, इति लौकिक सत्यमेव विव्रियते। यद् वस्तु येन रूपेण विद्यते, तस्य तेनैव रूपेण प्रकाशनं विवरणम् अभिधानं च सत्यम् इत्यनेनाभिप्रेतम्। धर्मस्य मूलं सत्यम् । सत्यमेव धर्मः । नहि धर्मः सत्याद् अतिरिच्यते । सत्यं ज्योतिः, सत्यमेव जीवनं द्योतयति ज्वलयति च। सत्यं ब्रह्मणस्तत्त्वम् । अतएव ‘ब्रह्म सत्यं जगन्मिथ्या’ इति वेदान्तविद्भिःरुदीर्यते। ब्रह्मैव सत्यं, सत्यं च ब्रह्मात्मकम् इति सुकरं वक्तुम्। अतएव ईश्वरस्य स्वस्य निर्देशात्मके सच्चिदानन्दशब्दे सत् शब्दः प्राङ् निर्दिश्यते । छान्दोऽग्योपनिषदि बृहदारण्यकोपनिषदि च सत्यमेव ब्रह्मेति प्रतिपाद्यते तदेव च जिज्ञासितव्यम्। सत्यं ब्रह्मेति, सत्यं ह्येव ब्रह्म। बृहदारकारोपनिषद् 5/4/2 सत्यं त्वेव विजिज्ञासितव्यम् । छान्दोग्योपनिषद् 7/16/2 जगति सर्वविधायकं किमस्ति ?
  1. Aऐश्वर्यम्
  2. Bसत्यम्
  3. Cअविद्या
  4. Dउपर्युक्तेषु एकस्मात् अधिकम्
  5. Eउपर्युक्तेषु कश्चन अपि नास्ति
Show answerHide answer

Correct answer: (B) सत्यम्

Explanation

गद्यांश के अनुसार जो सब लोकों का हित करता है, जगत् को सुख देता और समाज की रक्षा करता है, वही सत्य है। अतः (B) सही है।

From BPSC TRE 3.0 (2024) Sanskrit Class 6-8 — Previous Year Paper

This is question 116 of BPSC TRE 3.0 (2024) Sanskrit Class 6-8 — Previous Year Paper. See all questions of this paper with answers, or attempt the paper as a timed online test to get your score and all-India rank.